श्रवणम्

8.4.7
मा भे᳚म॒ मा श्र᳚मिष्मो॒ग्रस्य᳚ स॒ख्ये तव᳚ ।
म॒हत्ते॒ वृष्णो᳚ अभि॒चक्ष्यं᳚ कृ॒तं पश्ये᳚म तु॒र्वशं॒ यदु᳚म् ॥
▶ पदपाठः (Word-by-word)
मा । भे॒म॒ । मा । श्र॒मि॒ष्म॒ । उ॒ग्रस्य᳚ । स॒ख्ये । तव᳚ ।
म॒हत् । ते॒ । वृष्णः᳚ । अ॒भि॒॑चक्ष्य᳚म् । कृ॒तम् । पश्ये᳚म । तु॒र्वश᳚म् । यदु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र उग्रस्योद्गूर्णबलस्य तव सख्ये सखित्वे सति वयं माभेम माभैष्म कुतश्चिदपि शत्रोर्भीता माभूम । माश्रमिष्म श्रान्ताः पीडिताश्च माभूम वृष्णः कामानां वर्षितुस्ते तव संबन्धि महत् प्रभुतं कृतं वृत्रवधादिलक्षणं कर्म अभिचक्ष्यं अभितः ख्यापानीयं स्तोतव्यं अतोमहानुभावस्य त्व सख्यं प्राप्तानां भीतिश्रमौ न जायेते इत्यर्थः । तत्कथमवगम्यतइतिचेत् उच्यते तुर्वशं एतत्संज्ञं राजर्षिं यदुं एतत्संज्ञं च त्वत्प्रसादात्सुखेन जीवन्तौ पश्येम दृष्टवन्तः खलु वयं अतःकारणात् त्वत्सख्यं प्राप्तस्य भयादिकं न जायतइत्येतदुपपन्नमित्यर्थः ॥ ७ ॥