प्र ब्रह्मा᳚णि नभाक॒वदि᳚न्द्रा॒ग्निभ्या᳚मिरज्यत ।
या स॒प्तबु᳚ध्नमर्ण॒वं जि॒ह्मबा᳚रमपोर्णु॒त इन्द्र॒ ईशा᳚न॒ ओज᳚सा॒ नभ᳚न्तामन्य॒के स᳚मे ॥
या स॒प्तबु᳚ध्नमर्ण॒वं जि॒ह्मबा᳚रमपोर्णु॒त इन्द्र॒ ईशा᳚न॒ ओज᳚सा॒ नभ᳚न्तामन्य॒के स᳚मे ॥
पदपाठः (Word-by-word)
प्र । ब्रह्मा᳚णि । न॒भा॒क॒॑वत् । इ॒न्द्रा॒ग्नि॑भ्या᳚म् । इ॒र॒ज्य॒त॒ ।
या । स॒प्त॑बु᳚ध्नम् । अ॒र्ण॒वम् । जि॒ह्म॑बा᳚रम् । अ॒प॒॑ऊ॒र्णु॒तः । इन्द्रः᳚ । ईशा᳚नः । ओज᳚सा । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
या । स॒प्त॑बु᳚ध्नम् । अ॒र्ण॒वम् । जि॒ह्म॑बा᳚रम् । अ॒प॒॑ऊ॒र्णु॒तः । इन्द्रः᳚ । ईशा᳚नः । ओज᳚सा । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
सायणभाष्यम् (Sayana Commentary)
ब्रह्माणि स्तोत्राणि इन्द्राग्निभ्यां नभाकवत् प्रेरज्यत नाभाकः प्रेरयते । या याविन्द्राग्नी सप्तबुध्नं सप्तमूलं जिह्मबारं पिहितद्वारमर्णवमपोर्णुतस्तेजो- भिराच्छादयतः तयोर्मध्ये ओजसा बलेनेन्द्रईशानईश्वरोभवति । सिद्धमन्यत् ॥ ५ ॥