श्रवणम्

8.40.12
ए॒वेन्द्रा॒ग्निभ्यां᳚ पितृ॒वन्नवी᳚यो मन्धातृ॒वद᳚ङ्गिर॒स्वद᳚वाचि ।
त्रि॒धातु᳚ना॒ शर्म᳚णा पातम॒स्मान्व॒यं स्या᳚म॒ पत᳚यो रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
ए॒व । इ॒न्द्रा॒ग्नि॑भ्या᳚म् । पि॒तृ॒॑वत् । नवी᳚यः । म॒न्धा॒तृ॒॑वत् । अ॒ङ्गि॒र॒स्वत् । अ॒वा॒चि॒ ।
त्रि॒॑धातु᳚ना । शर्म᳚णा । पा॒त॒म् । अ॒स्मान् । व॒यम् । स्या॒म॒ । पत᳚यः । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवैवं याभ्यामिन्द्राग्निभ्यां पितृवन्नभाकवत् यौवनाश्वमन्धातृवत् चांगिरस्वदंगिरोवच्च नवीयोनवतरमवाचि नाभाकेन मया पाठिताविन्द्राग्नी त्रि- धातुना त्रिपर्वणा शर्मणा गृहेण नोस्मान्नाभाकान् पातं रक्षतम् । वयं रयीणां धनानां पतयः स्वामिनः स्याम भवेम ॥ १२ ॥

अस्माऊष्विति दशर्चमेकादशं सूक्तं अत्रेयमनुक्रमणिका-अस्माऊषुदशवारुणंत्विति । नाभाकऋषिः अनुवृत्तत्वात् । महापांक्तंहीत्युक्तत्वादिदमपि महापांक्तम् । इदमादिकेद्वे सूक्ते वरुणदेवत्ये । विनियोगोलैंगिकः । चातुर्विंशिकेहनि माध्यन्दिनसवने मैत्रावरुणशस्त्रे आरंभणीयायाऊर्ध्वं सक्षपइत्य- यं नाभाकतृचः । सूत्रितञ्च-सक्षपःपरिषस्वजइति मैत्रावरुणइति यःककुभइत्येतत्प्रभृतिकोवा नाभाकतृचः सूत्रितञ्च-यः ककुभोनिधारयइतिचेति ।