पू॒र्वीष्ट᳚ इ॒न्द्रोप᳚मातयः पू॒र्वीरु॒त प्रश᳚स्तय॒ः सूनो᳚ हि॒न्वस्य᳚ हरिवः ।
वस्वो᳚ वी॒रस्या॒पृचो॒ या नु साध᳚न्त नो॒ धियो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
वस्वो᳚ वी॒रस्या॒पृचो॒ या नु साध᳚न्त नो॒ धियो॒ नभ᳚न्तामन्य॒के स᳚मे ॥
पदपाठः (Word-by-word)
पू॒र्वीः । ते॒ । इ॒न्द्र॒ । उप᳚॑मातयः । पू॒र्वीः । उ॒त । प्र॑श᳚स्तयः । सूनो॒ इति᳚ । हि॒न्वस्य᳚ । ह॒रि॒॑वः॒ ।
वस्वः᳚ । वी॒रस्य᳚ । आ॒॑पृचः᳚ । याः । नु । साध᳚न्त । नः॒ । धियः᳚ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
वस्वः᳚ । वी॒रस्य᳚ । आ॒॑पृचः᳚ । याः । नु । साध᳚न्त । नः॒ । धियः᳚ । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे हरिवो वज्रिन् सूनो प्रेरयितरिन्द्र हिन्वस्य प्रीणयितुः वस्वोदीपकस्य वीरस्यापृचोधनान्युपयच्छतस्ते तव ता उपमातयउपमानानि पूर्वीर्बहूनि उतापिच प्रशस्तयः पूर्वीः याः नोस्माकं धियः प्रज्ञां नु क्षिप्रं साधन्तासाधयन् । सिद्धमन्यत् ॥ ९ ॥