श्रवणम्

8.40.10
तं शि᳚शीता सुवृ॒क्तिभि᳚स्त्वे॒षं सत्वा᳚नमृ॒ग्मिय᳚म् ।
उ॒तो नु चि॒द्य ओज᳚सा॒ शुष्ण᳚स्या॒ण्डानि॒ भेद᳚ति॒ जेष॒त्स्व᳚र्वतीर॒पो नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
तम् । शि॒शी॒त॒ । सु॒वृ॒क्ति॑भिः᳚ । त्वे॒षम् । सत्वा᳚नम् । ऋ॒ग्मिय᳚म् ।
उ॒तो इति᳚ । नु । चि॒त् । यः । ओज᳚सा । शुष्ण᳚स्य । आ॒ण्डानि᳚ । भेद᳚ति । जेष᳚त् । स्वः᳚॑वतीः । अ॒पः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः त्वेषं दीप्तं सत्वानं संभक्तारं धनानां ऋग्मियं ऋगर्हं ऋग्भिः स्तोतव्यं तमिन्द्रं सुवृक्तिभिः स्तुतिभिः शिशीत संस्कुरुत । उतोनुचित् अपिच यः इन्द्रः ओजसा बलेन शुष्णस्य शुष्णनामकस्यासुरस्याण्डान्यण्डजातान्यपत्यानि भेदत्यभिनत् सः स्वर्वतीर्दिव्यान्यपः सलिलानि जेषज्ज- यतु । सिद्धमन्यत् ॥ १० ॥