श्रवणम्

8.40.11
तं शि᳚शीता स्वध्व॒रं स॒त्यं सत्वा᳚नमृ॒त्विय᳚म् ।
उ॒तो नु चि॒द्य ओह᳚त आ॒ण्डा शुष्ण᳚स्य॒ भेद॒त्यजै॒ः स्व᳚र्वतीर॒पो नभ᳚न्तामन्य॒के स᳚मे ॥
▶ पदपाठः (Word-by-word)
तम् । शि॒शी॒त॒ । सु॒॑अ॒ध्व॒रम् । स॒त्यम् । सत्वा᳚नम् । ऋ॒त्विय᳚म् ।
उ॒तो इति᳚ । नु । चि॒त् । यः । ओह᳚ते । आ॒ण्डा । शुष्ण᳚स्य । भेद᳚ति । अजैः᳚ । स्वः᳚॑वतीः । अ॒पः । नभ᳚न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्तोतारः स्वध्वरं सुयज्ञं सत्यमविनाशं सत्वानं संभक्तारमृत्वियमृतौयष्टव्यं तमिन्द्रं शिशीत स्तुतिभिः संस्कुरुत । अथ प्रत्यक्षस्तुतिः उतोनुचित् अपिच यइन्द्रः ओहते यज्ञं प्रतिगच्छति शुष्णस्याण्डानि अण्डजातानिच भेदति भिनत्ति सत्वं स्वर्वतीर्दिव्यान्यपः सलिलान्यजैरजैषीः । सिद्धमन्यत् ॥ ११ ॥