श्रवणम्

8.101.14
प्र॒जा ह᳚ ति॒स्रो अ॒त्याय᳚मीयु॒र्न्य१॒᳚न्या अ॒र्कम॒भितो᳚ विविश्रे ।
बृ॒हद्ध᳚ तस्थौ॒ भुव᳚नेष्व॒न्तः पव᳚मानो ह॒रित॒ आ वि᳚वेश ॥
▶ पदपाठः (Word-by-word)
प्र॒॑जाः । ह॒ । ति॒स्रः । अ॒ति॒॑आय᳚म् । ई॒युः॒ । नि । अ॒न्याः । अ॒र्कम् । अ॒भितः᳚ । वि॒वि॒श्रे॒ ।
बृ॒हत् । ह॒ । त॒स्थौ॒ । भुव᳚नेषु । अ॒न्तरिति᳚ । पव᳚मानः । ह॒रितः᳚ । आ । वि॒वे॒श॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यास्तिस्रः प्रजाः अत्यायमीयुः अत्यायमायन् अन्यास्ताइमाः प्रजाः अर्कमर्चनीयमग्निं अभितोनिविविश्रे अभितोनिविष्टाः ततोनपराबभूवुः । भुवनेष्वन्तर्मध्ये बृहत् महानसावादित्यः प्रजापतिरित्येके तस्थौ प्रकाशयन्नतिष्ठत् हरितोदिशःपवमानोवायुराविवेश आविष्टः । हौ पूरणौ । तथाचैतस्यब्राह्मणं-प्रजाहतिस्रोअत्यायमीयुरिति यावैताइमाः प्रजास्तिस्रोअत्यायमायंस्तानीमानि वयांसि वंगावगधाश्चेररपादान्यन्या अर्कमभितोविविश्रइति ताइमाः प्रजा अर्कमभितोनिविष्टा इममेवाग्निं बृहद्धतस्थौ भुवनेष्वन्तरित्यदउ एवबृहद्भुवनेष्वन्तरसावादित्यः पवमानोहरित आविवेशेति वायुरेव पवमानो दिशोहरित आविष्टइति । वाजसनेयिनोप्यामनन्ति-सतपोतप्यत सप्रजाअसृजत ताअस्यप्रजाः सृष्टाः पराबभूवुः तानीमानिवयांसीत्युपक्रम्य प्रजाहतिस्रोअत्या यमीयुरिति याअमूः प्रजाअत्यायन् न्यन्याअर्कमभितोविविश्रइति अग्निर्वा- अर्कस्तमिमाः प्रजाअभितोनिविष्टास्ताइमाः पराभूता बृहद्धतस्थौभुवनेष्वन्तरिति प्रजापतिमेवैतदभ्यनूक्तं पवमानो हरितआविवेशेति दिशोवैहरितस्ता अयं पवमानआविष्टइति ॥ १४ ॥