योद्धा᳚सि॒ क्रत्वा॒ शव᳚सो॒त दं॒सना॒ विश्वा᳚ जा॒ताभि म॒ज्मना᳚ ।
आ त्वा॒यम॒र्क ऊ॒तये᳚ ववर्तति॒ यं गोत᳚मा॒ अजी᳚जनन् ॥
आ त्वा॒यम॒र्क ऊ॒तये᳚ ववर्तति॒ यं गोत᳚मा॒ अजी᳚जनन् ॥
पदपाठः (Word-by-word)
योद्धा᳚ । अ॒सि॒ । क्रत्वा᳚ । शव᳚सा । उ॒त । दं॒सना᳚ । विश्वा᳚ । जा॒ता । अ॒भि । म॒ज्मना᳚ ।
आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये᳚ । व॒व॒र्त॒ति॒ । यम् । गोत᳚माः । अजी᳚जनन् ॥
आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये᳚ । व॒व॒र्त॒ति॒ । यम् । गोत᳚माः । अजी᳚जनन् ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र । क्रत्वा वृत्रहननादि कर्मणा अपिवा प्रज्ञानेन शवसा आत्मीयेन बलेन याद्धा शत्रूणां संप्रहारकोसि । उतापिच त्वं दंसना स्वकीयेन कर्मणा मज्मना मजमुजिशब्दार्थाः । मजमुजीचेति मजतिः शब्दार्थः । शत्रूणामाक्रोशनसमर्थेन बलेन विश्वा जाता सर्वाणि भुतजातानि अभिभवसि । उक्तार्थस्य विश्वाजातान्यभ्यस्मिमह्नेत्यादिषु इन्द्रेणैवोक्तत्वात् । एतादृशं त्वा त्वामर्कः अर्चपूजायां अर्चनीयः अयं मंत्रः यद्वा अर्कः देवानामर्चकः पूजकः अयं स्तोता ऊतये स्वरक्षणाय आववर्तति आवर्तयति आत्माभिमुख्ये करोतीत्यर्थः । वर्ततेर्लेटि बहुलंश्लुरडागमश्च । यं त्वां गोतमाः गोतमपुत्रानोधः प्रभृतयः अजीजनन् स्वयज्ञे प्रादुरबीभवन् तं त्वां अयं मंत्रः स्तोता वा आवर्तयति ॥ ४ ॥