अनु॒ पूर्वा᳚ण्यो॒क्या᳚ साम्रा॒ज्यस्य᳚ सश्चिम ।
मि॒त्रस्य᳚ व्र॒ता वरु᳚णस्य दीर्घ॒श्रुत् ॥
मि॒त्रस्य᳚ व्र॒ता वरु᳚णस्य दीर्घ॒श्रुत् ॥
पदपाठः (Word-by-word)
अनु᳚ । पूर्वा᳚णि । ओ॒क्या᳚ । सा॒म्॑रा॒ज्यस्य᳚ । स॒श्चि॒म॒ ।
मि॒त्रस्य᳚ । व्र॒ता । वरु᳚णस्य । दी॒र्घ॒॑श्रुत् ॥
मि॒त्रस्य᳚ । व्र॒ता । वरु᳚णस्य । दी॒र्घ॒॑श्रुत् ॥
सायणभाष्यम् (Sayana Commentary)
साम्राज्यस्य सम्राजोभावः साम्राज्यं साम्राज्यमस्यास्तीति साम्राज्यः अर्शआदिभ्यइत्यच् प्रत्ययः साम्राज्यवतोवरुणस्य पूर्वाणि पुरातनानि ओक्या ओकोगृहं तस्मै हितानि कर्माणि वयं सश्चिम । सश्चतिर्गतिकर्मा लिटिरूपं द्विर्वचनस्य छन्दसिविकल्पितत्वादत्रद्विर्वचनाभावः । तदेवाह मित्रस्य व्रता व्रतानि कर्माणिच दीर्घश्रुत् सुपांसुलुगिति षष्ठ्यालुक् दीर्घश्रुतः अतिशयेन प्रसिद्धस्य वर्षणस्य व्रतानिवा सश्चिमेति ॥ १७ ॥