श्रवणम्

8.25.5
नपा᳚ता॒ शव᳚सो म॒हः सू॒नू दक्ष᳚स्य सु॒क्रतू᳚ ।
सृ॒प्रदा᳚नू इ॒षो वास्त्वधि᳚ क्षितः ॥
▶ पदपाठः (Word-by-word)
नपा᳚ता । शव᳚सः । म॒हः । सू॒नू इति᳚ । दक्ष᳚स्य । सु॒क्रतू॒ इति᳚ सु॒॑क्रतू᳚ ।
सृ॒प्रदा᳚नू॒ इति᳚ सृ॒प्र॑दा᳚नू । इ॒षः । वास्तु᳚ । अधि᳚ । क्षि॒तः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

महोमहतः शवसोबलस्यनपाता नपातौ पौत्रौ बलेनोत्पादिताविति बलस्य पौत्रौ तादृशा दक्षस्य । दक्षवृद्धौ शीघ्रार्थेचेति दक्षोवेगः । तस्य सूनू पुत्रौ । बलाद्वेगइति तयोःपुत्रत्वम् । तौ सुक्रतू शोभनकर्माणौ सृप्रदानू प्रसृतधनादिदानौ मित्रावरुणौ इषोन्नस्य वास्तु निवासस्थाने अधिक्षितः अधिवसतः । अधिशीङिति वास्तुनः कर्मसंज्ञा क्षयतेर्लटि छान्दसोविकरणस्यलुक् ॥ ५ ॥