ता मा॒ता वि॒श्ववे᳚दसासु॒र्या᳚य॒ प्रम᳚हसा ।
म॒ही ज᳚जा॒नादि᳚तिरृ॒ताव᳚री ॥
म॒ही ज᳚जा॒नादि᳚तिरृ॒ताव᳚री ॥
पदपाठः (Word-by-word)
ता । मा॒ता । वि॒श्व॑वे᳚दसा । अ॒सु॒र्या᳚य । प्र॑म᳚हसा ।
म॒ही । ज॒जा॒न॒ । अदि᳚तिः । ऋ॒त॑व᳚री ॥
म॒ही । ज॒जा॒न॒ । अदि᳚तिः । ऋ॒त॑व᳚री ॥
सायणभाष्यम् (Sayana Commentary)
अदितेस्तनयत्वमेव स्फुटयति-विश्ववेदसा विश्ववेदसौ सर्वधनौ यद्वा विश्वानि स्थावरजंगमात्मकानि सर्वाणि विदतुर्जानीतइति विश्ववेदसौ प्रमह- सा प्रमहसौ प्रकृष्टतेजस्कौ ता तौ तादृशौ मित्रावरुणौ मही महती ऋतावरी सत्यवती माता देवमाता अदितिः जजान जनयामास । किमर्थं असु- र्याय असुराणां हन्त्रे बलाय असुरान्हंतुमुत्पादितवतीत्यर्थः ॥ ३ ॥