उ॒त न॒ः सिन्धु᳚र॒पां तन्म॒रुत॒स्तद॒श्विना᳚ ।
इन्द्रो॒ विष्णु᳚र्मी॒ढ्वांसः᳚ स॒जोष᳚सः ॥
इन्द्रो॒ विष्णु᳚र्मी॒ढ्वांसः᳚ स॒जोष᳚सः ॥
पदपाठः (Word-by-word)
उ॒त । नः॒ । सिन्धुः᳚ । अ॒पाम् । तत् । म॒रुतः᳚ । तत् । अ॒श्विना᳚ ।
इन्द्रः᳚ । विष्णुः᳚ । मी॒ढ्वांसः᳚ । स॒॑जोष᳚सः ॥
इन्द्रः᳚ । विष्णुः᳚ । मी॒ढ्वांसः᳚ । स॒॑जोष᳚सः ॥
सायणभाष्यम् (Sayana Commentary)
पुनरपि धनरक्षणमेवाशास्ते उतापिच अपामुदकानां सिन्धुः स्यन्दनशीलः पर्जन्यः नोस्मदीयं तद्धनं रक्षतु तदेव मरुतश्च पालयन्तु अश्विना अश्वि- नौ देवौ तद्धनं पालयताम् । तथा इन्द्रोविष्णुश्च मिढ्वांसः कामानां सेक्तारएत सर्वेदेवाः सजोषसः संगताः संतः अस्मदीयं धनं रक्षन्तु एतेदेवा अस्मभ्यं धनं दत्वा पालयन्त्वित्यर्थः ॥ १४ ॥