श्रवणम्

8.25.24 समानपद
स्मद᳚भीशू॒ कशा᳚वन्ता॒ विप्रा॒ नवि᳚ष्ठया म॒ती ।
म॒हो वा॒जिना॒वर्व᳚न्ता॒ सचा᳚सनम् ॥
▶ पदपाठः (Word-by-word)
स्मद᳚भीशू॒ इति॒ स्मत्॑अ᳚भीशू । कशा᳚॑वन्ता । विप्रा᳚ । नवि᳚ष्ठया । म॒ती ।
म॒हः । वा॒जिनौ᳚ । अर्व᳚न्ता । सचा᳚ । अ॒स॒न॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिरिदानीं तावश्वावग्रहीषमित्याह स्मदभीशू स्मत् सुमत् उकारलोपश्छान्दसः शोभनरज्जुयुक्तौ यद्वा शोभनस्वशरीरकान्ती कशावन्ता कशाव- न्तौ कशायुक्तौ विप्रा विप्रौ मेधाविनामुचितौ मेधावी स्तोता यथा स्तुत्यं देवं स्तुतिभिः प्रीणयति तद्वत् सन्तोषकौ महोमहतः सौषाम्णस्य वरोः संबन्धिनौ वाजिनौ शीघ्रगमनवन्तौ अर्वन्ता अर्वन्तौ द्वावश्वौ सचाशह युगपदेव नविष्ठया नवतरया मती मत्या स्तुत्या मित्रादीन् स्तुवन् असनं विश्वमना अहं समभजं प्रत्यग्रहीषमित्यर्थः ॥ २४ ॥