श्रवणम्

8.25.6
सं या दानू᳚नि ये॒मथु᳚र्दि॒व्याः पार्थि᳚वी॒रिषः᳚ ।
नभ᳚स्वती॒रा वां᳚ चरन्तु वृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । या । दानू᳚नि । ये॒मथुः᳚ । दि॒व्याः । पार्थि᳚वीः । इषः᳚ ।
नभ᳚स्वतीः । आ । वा॒म् । च॒र॒न्तु॒ । वृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ या यौ युवां दानूनि देयानि धनानि संयेमथुः अस्मासु संयच्छतं तथा दिव्यानि दिविभवानि पार्थिवीः पृथिव्यामुत्पन्नानि इषोन्नानि संयच्छतं वृष्ट्यभावे कथमन्नंलभ्यतइतिचेत् तदुच्यते-नभस्वतीः उदकवत्योवृष्टयः तादृशौ वां युवां आचरन्तूपतिष्ठन्तु ॥ ६ ॥