श्रवणम्

8.25.23
ता मे॒ अश्व्या᳚नां॒ हरी᳚णां नि॒तोश᳚ना ।
उ॒तो नु कृत्व्या᳚नां नृ॒वाह᳚सा ॥
▶ पदपाठः (Word-by-word)
ता । मे॒ । अश्व्या᳚नाम् । हरी᳚णाम् । नि॒॑तोश᳚ना ।
उ॒तो इति᳚ । नु । कृत्व्या᳚नाम् । नृ॒॑वाह᳚सा ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋषिः प्रतिगृहीतावश्वावाह हरीणां हरितवर्णानामश्व्यानामश्वसंघानां मध्ये नितोशना नितोशनौ तोशतिर्हिंसाकर्मा शत्रूणामत्यन्तं बाधकृतौ उतो अपिच कृत्व्यानां युद्धकर्मणि कुशलानांच कुशलमिति बाधकौ नृवाहसा नृवाहसौ आयुधनेतृणां मनुष्याणां वोढारौ ता तावश्वौ मे मह्यं नु क्षिप्रं सौषाम्णेन वरुणा दत्तौ भवेतम् ॥ २३ ॥