श्रवणम्

8.25.15
ते हि ष्मा᳚ व॒नुषो॒ नरो॒॑भिमा᳚तिं॒ कय᳚स्य चित् ।
ति॒ग्मं न क्षोदः᳚ प्रति॒घ्नन्ति॒ भूर्ण᳚यः ॥
▶ पदपाठः (Word-by-word)
ते । हि । स्म॒ । व॒नुषः᳚ । नरः᳚ । अ॒भि॑मा᳚तिम् । कय᳚स्य । चि॒त् ।
ति॒ग्मम् । न । क्षोदः᳚ । प्र॒ति॒॑घ्नन्ति᳚ । भूर्ण᳚यः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनुषः वननीयाः संभजनीयाः नरो नेतारस्तेहिष्म तेखलु देवाः भूर्णयः क्षिप्रगमनाः सन्तः कयस्यचित्कस्यचिच्छत्रोरभिमातिमभिमानं प्रतिघ्नन्ति प्रतिकूलं यथाभवति तथा हिंसन्ति । तत्रदृष्टान्तः-तिग्मंन यथा तिग्मं तीक्ष्णं जवेन गच्छत् क्षोदः उदकं अग्रतः स्थितं वृक्षमुन्मूलयति तद्वत् तस्याभि- मानं घ्नन्तीत्यर्थः ॥ १५ ॥