म॒हान्ता᳚ मि॒त्रावरु᳚णा स॒म्राजा᳚ दे॒वावसु᳚रा ।
ऋ॒तावा᳚नावृ॒तमा घो᳚षतो बृ॒हत् ॥
ऋ॒तावा᳚नावृ॒तमा घो᳚षतो बृ॒हत् ॥
पदपाठः (Word-by-word)
म॒हान्ता᳚ । मि॒त्रावरु᳚णा । स॒म्॑राजा᳚ । दे॒वौ । असु᳚रा ।
ऋ॒त॑वा᳚नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥
ऋ॒त॑वा᳚नौ । ऋ॒तम् । आ । घो॒ष॒तः॒ । बृ॒हत् ॥
सायणभाष्यम् (Sayana Commentary)
महान्ता गुणाधिक्येन महान्तौ सम्राजौ सम्यग्दीप्यमानौ असुरा असुरौ बलवन्तौ यद्वा सर्वान्तर्यामितया प्रेरकौ ऋतावानौ सत्यवन्तौ मित्रावरुणौ देवौ बृहत् स्तोत्रशस्त्रादिना महान्तं ऋतं यज्ञमाघोषतः स्वदीप्त्या प्रकाशयतः घुषेर्लटिरूपम् ॥ ४ ॥