अ॒यमेक᳚ इ॒त्था पु॒रूरु च᳚ष्टे॒ वि वि॒श्पति᳚ः ।
तस्य᳚ व्र॒तान्यनु᳚ वश्चरामसि ॥
तस्य᳚ व्र॒तान्यनु᳚ वश्चरामसि ॥
पदपाठः (Word-by-word)
अ॒यम् । एकः᳚ । इ॒त्था । पु॒रु । उ॒रु । च॒ष्टे॒ । वि । वि॒श्पतिः᳚ ।
तस्य᳚ । व्र॒तानि᳚ । अनु᳚ । वः॒ । च॒रा॒म॒सि॒ ॥
तस्य᳚ । व्र॒तानि᳚ । अनु᳚ । वः॒ । च॒रा॒म॒सि॒ ॥
सायणभाष्यम् (Sayana Commentary)
मित्रस्य कर्माण्याह विश्पतिः विशां पालयिता अनयोर्मित्रावरुणयोरेकः अयं मित्रः पुरु पुरूणि बहूनिच उरु उरूणिच द्रव्याणि इत्था इत्थं विचष्टे स्वतेजसा पश्यति तस्य मित्रस्य व्रतानि कर्माणि वोयुष्मदर्थं अनुचरामसि अनुचरामः कुर्मइत्यर्थः ॥ १६ ॥