श्रवणम्

8.25.10
उ॒त नो᳚ दे॒व्यदि᳚तिरुरु॒ष्यतां॒ नास᳚त्या ।
उ॒रु॒ष्यन्तु᳚ म॒रुतो᳚ वृ॒द्धश᳚वसः ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । दे॒वी । अदि᳚तिः । उ॒रु॒ष्यता᳚म् । नास᳚त्या ।
उ॒रु॒ष्यन्तु᳚ । म॒रुतः᳚ । वृ॒द्ध॑श᳚वसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच देवी द्योतनशीला अदितिर्मित्रावरुणयोर्माता नोस्मान्रक्षतु नासत्या नासत्यौ असत्यमनयोर्नास्तीति नासत्यौ अश्विनौच उरुष्यतां रक्षताम् । उरुष्यतिः कंड्वादिः वृद्धश्रवसः वृद्धवेगा अतिशयेन वेगवन्तइत्यर्थः यद्वा वर्धनशीलहविर्लक्षणान्नोपेताः मरुतः उरुष्यन्तु अस्मान्पालयन्तु ॥ १० ॥