उदु॒ ष्य श᳚र॒णे दि॒वो ज्योति᳚रयंस्त॒ सूर्य᳚ः ।
अ॒ग्निर्न शु॒क्रः स᳚मिधा॒न आहु᳚तः ॥
अ॒ग्निर्न शु॒क्रः स᳚मिधा॒न आहु᳚तः ॥
पदपाठः (Word-by-word)
उत् । ऊं॒ इति᳚ । स्यः । श॒र॒णे । दि॒वः । ज्योतिः᳚ । अ॒यं॒स्त॒ । सूर्यः᳚ ।
अ॒ग्निः । न । शु॒क्रः । स॒म्॑इ॒धा॒नः । आ॑हु᳚तः ॥
अ॒ग्निः । न । शु॒क्रः । स॒म्॑इ॒धा॒नः । आ॑हु᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
सूर्यः सुवीर्यः सुष्ठु सर्वस्यप्रेरकः स्यः समित्रोवरुणश्च दिवोद्योतमानस्यादित्यस्य शरणे स्थाने नभसि ज्योतिरात्मीयं तेजः उदयंस्त उद्यच्छति ऊर्ध्वं गमयति सर्वत्र विस्तारयतीत्यर्थः । यमेर्लुङिरूपम् । ततः सः अग्निर्न शुक्रः अग्निरिव दीप्यमानः समिधानः हविर्भिः समिध्यमानः आहुतः सर्वैराहूतस्तिष्ठति ॥ १९ ॥