ता वां॒ विश्व᳚स्य गो॒पा दे॒वा दे॒वेषु᳚ य॒ज्ञिया᳚ ।
ऋ॒तावा᳚ना यजसे पू॒तद᳚क्षसा ॥
ऋ॒तावा᳚ना यजसे पू॒तद᳚क्षसा ॥
पदपाठः (Word-by-word)
ता । वा॒म् । विश्व᳚स्य । गो॒पा । दे॒वा । दे॒वेषु᳚ । य॒ज्ञिया᳚ ।
ऋ॒त॑वा᳚ना । य॒ज॒से॒ । पू॒त॑द᳚क्षसा ॥
ऋ॒त॑वा᳚ना । य॒ज॒से॒ । पू॒त॑द᳚क्षसा ॥
सायणभाष्यम् (Sayana Commentary)
हे मित्रावरुणौ विश्वस्य सर्वस्य लोकस्य गोपा गोपायितारौ देवा देवौ द्योतनशीलौ देवेषु मध्ये यज्ञिया यज्ञार्हौ ता तौ तादृशौ वां युवां हविःप्रदा- नार्थं यजमानंभजथः अतएव हे विश्वमनाः ऋतावाना ऋतावानौ सत्यवन्तौ यज्ञवन्तौ यज्ञवन्तौवा पूतदक्षसा पूतदक्षसौ शुद्धबलौ । आवां बलव- न्ताविति वचनमात्रेण बलवन्तौ न भवतः । किन्तु यथार्थत्वेन सामर्थ्यवंतौ मित्रावरुणौ यजसे हविर्भिः पूजयसि ॥ १ ॥