तद्वार्यं᳚ वृणीमहे॒ वरि᳚ष्ठं गोप॒यत्य᳚म् ।
मि॒त्रो यत्पान्ति॒ वरु᳚णो॒ यद᳚र्य॒मा ॥
मि॒त्रो यत्पान्ति॒ वरु᳚णो॒ यद᳚र्य॒मा ॥
पदपाठः (Word-by-word)
तत् । वार्य᳚म् । वृ॒णी॒म॒हे॒ । वरि᳚ष्ठम् । गो॒प॒यत्य᳚म् ।
मि॒त्रः । यत् । पान्ति᳚ । वरु᳚णः । यत् । अ॒र्य॒मा ॥
मि॒त्रः । यत् । पान्ति᳚ । वरु᳚णः । यत् । अ॒र्य॒मा ॥
सायणभाष्यम् (Sayana Commentary)
वरिष्ठं उरुतरं गोपयत्यं सर्वेषां रक्षकं सर्वैः पालनीयं वा वार्यं सर्वैर्वननीयं तद्धनं वृणीमहे वयं संभजामहे । यद्धनं मित्रः सर्वेषां मित्रभूतः वरुणः शत्रूणां वारयिता अर्यमा सर्वदागच्छन् एतन्नामकास्त्रयोदेवाः पांति पालयन्ति तद्धनं वृणीमहे अस्मदीयस्य धनस्य रक्षकाभवन्तीत्यर्थः ॥ १३ ॥