श्रवणम्

8.25.2
मि॒त्रा तना॒ न र॒थ्या॒३॒᳚ वरु᳚णो॒ यश्च᳚ सु॒क्रतु᳚ः ।
स॒नात्सु᳚जा॒ता तन᳚या धृ॒तव्र᳚ता ॥
▶ पदपाठः (Word-by-word)
मि॒त्रा । तना᳚ । न । र॒थ्या᳚ । वरु᳚णः । यः । च॒ । सु॒॑क्रतुः᳚ ।
स॒नात् । सु॒॑जा॒ता । तन᳚या । धृ॒त॑व्र᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुक्रतुः शोभनकर्मा योवरुणः सुकर्मा मित्रश्च मित्रावरुणौ कीदृशौ तना तन्वन्ति मुकुटकटकादिनेति तनानि धनानि नश्चार्थे धनानिच रथया रथयौ नेतारौ । यद्वा धनानि कर्मणः कर्तृपक्षत्वात् प्रयच्छन्ताविति संबध्यते । तादृशौ रथयौ रथवन्तौ सनाच्चिरादेव सुजाता सुजातौ शोभनजन्मानौ तदे- वाह तनया तनयौ अदितेः पुत्रौ धृतव्रता धृतव्रतौ धृतकर्माणौ तौ यजसइति पूर्वेणसमन्वयः ॥ २ ॥