श्रवणम्

8.62.5
धृ॒ष॒तश्चि᳚द्धृ॒षन्मनः᳚ कृ॒णोषी᳚न्द्र॒ यत्त्वम् ।
ती॒व्रैः सोमै᳚ः सपर्य॒तो नमो᳚भिः प्रति॒भूष᳚तो भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
धृ॒ष॒तः । चि॒त् । धृ॒षत् । मनः᳚ । कृ॒णोषि᳚ । इ॒न्द्र॒ । यत् । त्वम् ।
ती॒व्रैः । सोमैः᳚ । स॒प॒र्य॒तः । नमः᳚॑भिः । प्र॒ति॒॑भूष᳚तः । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र धृषतश्चित् धृष्टादपि धृषत् धृष्टं मनः कृणोषि अत्यन्तं धृष्टं करोषि । यद्यस्मात्त्वं तीव्रैः मदजमकैः सोमैः सपर्यतः पूजयतो नमोभिर्नमस्कारै- श्च प्रतिभूषतोलंकुर्वतो यजमानस्य अभिमतं दित्ससीतिशेषः ॥ ५ ॥