श्रवणम्

8.62.6
अव᳚ चष्ट॒ ऋची᳚षमो॑व॒ता{4} इ᳚व॒ मानु᳚षः ।
जु॒ष्ट्वी दक्ष᳚स्य सो॒मिन॒ः सखा᳚यं कृणुते॒ युजं᳚ भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
अव᳚ । च॒ष्टे॒ । ऋची᳚षमः । अ॒व॒तान्॑इ᳚व । मानु᳚षः ।
जु॒ष्ट्वी । दक्ष᳚स्य । सो॒मिनः᳚ । सखा᳚यम् । कृ॒णु॒ते॒ । युज᳚म् । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमिन्द्रः ऋचीषमो ऋचा स्तुत्या समः तथापरिच्छिन्नः सन्नवचष्टे पश्यति अनुग्रहेणास्मान् । तत्र दृष्टान्तः-मानुषो मनुष्यः अवतानवटान्कूपादि- प्रदेशानिव दृष्ट्वाच जुष्ट्वी प्रीतोयं दक्षप्रवृद्धस्य सोमिनो यजमानस्य युजं युज्यमात्मानं सखायं कृणुते करोति तस्याभिमतं साधयती- त्यर्थः । अथवा तृषितोमनुष्यो जलपूर्णानवटानिव स्तुतः सन्पश्यति सोमं पातुम् । पश्चादवेक्षितं तं युज्यमानं सोमं जुष्ट्वी सेवित्वा दक्षस्य सोमिनः सखायं कृणुते कुरुते ॥ ६ ॥