आ या᳚हि कृ॒णवा᳚म त॒ इन्द्र॒ ब्रह्मा᳚णि॒ वर्ध᳚ना ।
येभि᳚ः शविष्ठ चा॒कनो᳚ भ॒द्रमि॒ह श्र᳚वस्य॒ते भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
येभि᳚ः शविष्ठ चा॒कनो᳚ भ॒द्रमि॒ह श्र᳚वस्य॒ते भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
पदपाठः (Word-by-word)
आ । या॒हि॒ । कृ॒णवा᳚म । ते॒ । इन्द्र᳚ । ब्रह्मा᳚णि । वर्ध᳚ना ।
येभिः᳚ । श॒वि॒ष्ठ॒ । चा॒कनः᳚ । भ॒द्रम् । इ॒ह । श्र॒व॒स्य॒ते । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
येभिः᳚ । श॒वि॒ष्ठ॒ । चा॒कनः᳚ । भ॒द्रम् । इ॒ह । श्र॒व॒स्य॒ते । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र आयात्द्यागच्छ ते कृणवाम किं ब्रह्माणि परिवृढानि स्तुतिलक्षणानि कर्माणि । कीदृशानि वर्धना उत्साहवर्धकानि । येभिर्यैः कर्मभिः हे शविष्ठातिशयेन बलवन्निन्द्र चाकनः कामयसे । किं भद्रं कर्तुम् । कस्मै श्रवस्यतेन्नमिच्छते स्तोत्रे ॥ ४ ॥