श्रवणम्

8.62.11
अ॒हं च॒ त्वं च᳚ वृत्रह॒न्त्सं यु᳚ज्याव स॒निभ्य॒ आ ।
अ॒रा॒ती॒वा चि᳚दद्रि॒वो॑नु᳚ नौ शूर मंसते भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒॑ह॒न् । सम् । यु॒ज्या॒व॒ । स॒नि॑भ्यः᳚ । आ ।
अ॒रा॒ति॒॑वा । चि॒त् । अ॒द्रि॒॑वः॒ । अनु᳚ । नौ॒ । शू॒र॒ । मं॒स॒ते॒ । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन्निन्द्र त्वञ्चाहञ्च संयुज्याव संगतौ भवाव । कियदवधीति उच्यते-सनिभ्य आ यावता कालेन धनानि लभ्यन्ते तावत्कालम् । नौ संगतयो- श्चावयोः हे अद्रिवो वज्रवन्निन्द्र हेशूर अरातीवा चित् अदानोपि जनस्त्वद्दत्तधनस्य अनुमंसते अनुमतिं करोति ॥ ११ ॥