स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं᳚ स्तवाम॒ नानृ᳚तम् ।
म॒हा{4} असु᳚न्वतो व॒धो भूरि॒ ज्योतीं᳚षि सुन्व॒तो भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
म॒हा{4} असु᳚न्वतो व॒धो भूरि॒ ज्योतीं᳚षि सुन्व॒तो भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
पदपाठः (Word-by-word)
स॒त्यम् । इत् । वै । ऊं॒ इति᳚ । तम् । व॒यम् । इन्द्र᳚म् । स्त॒वा॒म॒ । न । अनृ᳚तम् ।
म॒हान् । असु᳚न्वतः । व॒धः । भूरि᳚ । ज्योतीं᳚षि । सु॒न्व॒तः । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
म॒हान् । असु᳚न्वतः । व॒धः । भूरि᳚ । ज्योतीं᳚षि । सु॒न्व॒तः । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
वयं प्रगाथास्तमिन्द्रं सत्यमित् सत्यमेव स्तवाम नानृतम् । वैइति निश्चयेन । असत्यंन स्तवाम । अस्माभिरुक्तागुणाः सत्याएवसन्तु नानृताइत्यर्थः । स्तुत्यस्येन्द्रस्य सम्बन्धीअसुन्वतोयष्टुर्वधोमहान् प्रभूतोभवति । भूरिज्योतींषि बहून् सोमान् सुन्वतोभिषवंकुर्वतो यजमानस्येन्द्रकृतोनुग्रहो महा- न्भवतीत्यर्थः ॥ १२ ॥
सपूर्व्यइति द्वादशर्चं चतुर्थं सूक्तम् । अत्रानुक्रमणिका-सपूर्व्योगायत्रमाद्याचतुर्थ्यादिद्वे सप्तमीचानुष्टुभो गायत्रेन्त्यादैवी त्रिष्टुबिति । प्रथमा चतुर्थी पञ्चमी सप्तम्यश्चतस्रोनुष्टुभः अस्मेरुद्राइत्यन्त्यात्रिष्टुप् अवशिष्टागायत्र्यः अन्त्यायादेवादेवता शिष्टाऎन्द्मः षष्ठेहनिमरुत्वतीयस्याद्यस्तृचःप्रतिपत् । सूत्रितंच-सपूर्व्योमहानांत्रयइन्द्रस्यसोमाइतिमरुत्वतीयस्यप्रतिपदनुचराविति ।