श्रवणम्

8.62.9
सम᳚नेव वपुष्य॒तः कृ॒णव॒न्मानु᳚षा यु॒गा ।
वि॒दे तदिन्द्र॒श्चेत᳚न॒मध᳚ श्रु॒तो भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
सम᳚ना॑इव । व॒पु॒ष्य॒तः । कृ॒णव᳚त् । मानु᳚षा । यु॒गा ।
वि॒दे । तत् । इन्द्रः᳚ । चेत᳚नम् । अध᳚ । श्रु॒तः । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

समनेव समानमनस्का योषिदिव सायथा वपुष्यतो वपुरिच्छतः पुरुषान् कृणवत्करोति स्ववशान् एवमयमिन्द्रो मानुषा मनुष्यान् युगा युगानि कालान्संवत्सरायनर्तुमासादीन्विदे लंभयति तद्युगनिर्माणात्मकं कर्म इन्द्रश्चेतनं सर्वस्य प्रज्ञापकं कृतवानिति शेषः । अध अथैवं कृत्वा श्रुतः सर्वत्र ख्यातोभूत् ॥ ९ ॥