विश्वे᳚ त इन्द्र वी॒र्यं᳚ दे॒वा अनु॒ क्रतुं᳚ ददुः ।
भुवो॒ विश्व᳚स्य॒ गोप᳚तिः पुरुष्टुत भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
भुवो॒ विश्व᳚स्य॒ गोप᳚तिः पुरुष्टुत भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
पदपाठः (Word-by-word)
विश्वे᳚ । ते॒ । इ॒न्द्र॒ । वी॒र्य᳚म् । दे॒वाः । अनु᳚ । क्रतु᳚म् । द॒दुः॒ ।
भुवः᳚ । विश्व᳚स्य । गो॑प᳚तिः । पु॒रु॒॑स्तु॒त॒ । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
भुवः᳚ । विश्व᳚स्य । गो॑प᳚तिः । पु॒रु॒॑स्तु॒त॒ । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र ते तव वीर्यं सामर्थ्यं क्रतुं प्रज्ञाञ्च अनु अनुसृत्य विश्वे सर्वे देवाः दधुः धारयन्ति वीर्यं प्रज्ञांच तव बलेन प्रज्ञयाच तेपि बलिनः प्रज्ञावन्तश्च भवन्तीत्यर्थः । तादृशस्त्वं गोपतिः प्रसिद्धानां गवामुदकानां स्तुतिवचसोवा पतिर्भुवोभवसि विश्वस्येत्येतत्पदांतर्गतस्यापि गोशब्दस्य विशेषः । हे पुरुष्टुत बहुभिः स्तुतेन्द्र भवसीति समन्वयः ॥ ७ ॥