श्रवणम्

8.62.3
अहि᳚तेन चि॒दर्व᳚ता जी॒रदा᳚नुः सिषासति ।
प्र॒वाच्य᳚मिन्द्र॒ तत्तव᳚ वी॒र्या᳚णि करिष्य॒तो भ॒द्रा इन्द्र᳚स्य रा॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
अहि᳚तेन । चि॒त् । अर्व᳚ता । जी॒र॑दा᳚नुः । सि॒षा॒स॒ति॒ ।
प्र॒॑वाच्य᳚म् । इ॒न्द्र॒ । तत् । तव᳚ । वी॒र्या᳚णि । क॒रि॒ष्य॒तः । भ॒द्राः । इन्द्र᳚स्य । रा॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयं जीरदानुः क्षिप्रप्रदानइन्द्रः अहितेनायोजितेनाप्रेरितेनचिदर्वतारणवताश्वेन सिषासति संभक्तुमिच्छति तत् तस्माद्धे इन्द्र वीर्याणि सामर्थ्यानि करिष्यतस्तव महत्त्वं प्रवाच्यं स्तुत्यमित्यर्थः ॥ ३ ॥