श्रवणम्

8.24.11
नू अ॒न्यत्रा᳚ चिदद्रिव॒स्त्वन्नो᳚ जग्मुरा॒शसः᳚ ।
मघ᳚वञ्छ॒ग्धि तव॒ तन्न᳚ ऊ॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
नु । अ॒न्यत्र᳚ । चि॒त् । अ॒द्रि॒॑वः॒ । त्वत् । नः॒ । ज॒ग्मुः॒ । आ॒॑शसः᳚ ।
मघ᳚॑वन् । श॒ग्धि । तव᳚ । तत् । नः॒ । ऊ॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अद्रिवः वज्रवन्निन्द्र त्वं धनवान् दाताचेत्यपरिज्ञाय नोस्मदीयानि आशसः आशंसनान्यभिलाषाः त्वत् त्वत्तोन्यत्र देवादौ नूचित् पुरा जग्मुः अग- च्छन् तत्र फलं नालभन्त । इदानीं त्वं धनवान् त्वं दानशीलइत्यस्माभिर्ज्ञातं अतएव हे मघवन् धनवन् इन्द्र तव त्वदीयं तच्छत्रुपुरविदारणलब्धं ध- नं ऊतिभिः तद्रक्षणैः नोस्मभ्यं शग्धि देहि शग्धीति दानकर्मा शक्रोतेर्लोटि छान्दसोविकरणस्यलुक् ॥ ११ ॥