श्रवणम्

8.24.30 समानपद
यत्त्वा᳚ पृ॒च्छादी᳚जा॒नः कु᳚ह॒या कु᳚हयाकृते ।
ए॒षो अप᳚श्रितो व॒लो गो᳚म॒तीमव᳚ तिष्ठति ॥
▶ पदपाठः (Word-by-word)
यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒॑कृ॒ते॒ ।
ए॒षः । अप᳚॑श्रितः । व॒लः । गो॒॑म॒तीम् । अव᳚ । ति॒ष्ठ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीमुषसं संबोध्याभिधीयते हे कुहयाकृते सवरुः कुह कुत्रतिष्ठतीत्येतदिच्छयाभिलक्षणप्रवृत्तैर्जिज्ञासुभिः पुरस्कृते कुहशब्दात् क्यच् एतादृशे हे उषःत्वा त्वां यद्यदां कश्चित् पृच्छात् पृच्छति ईजानः इष्टवान् वरुः कुहया क्वतिष्ठतीति यदा पृच्छति तदानीमपश्रितः सर्वैराश्रितःयद्वा विवृतद्वारः । यदा याचमानाआगच्छन्ति तदा दौवारिका न प्रतिबध्नन्तीत्यर्थः तादृशः वलोवरः स्वबलेनावरकः शत्रूणां यद्वा भिक्षूणां धनादिप्रदानेनावरिता एषोएषवरुः गोमतीं एतन्नामिकां तदीं कालाध्वनोरितिद्वितीया तस्यास्तीरे अवतिष्ठतीति तदानीं त्वं कथयसि ॥ ३० ॥

तावामिति चतुर्विंशत्यृचं पच्चमं सूक्तम् अत्रेयमनुक्र्मणिका-तावांचतुर्विशतिर्मैत्रावरुणं दशम्याद्यास्तिस्रोवैश्वदेव्यउपान्त्योष्णिग्गर्भेति । व्यश्वपुत्रो- वैयश्वनामा ऋषिः पूर्ववदुष्णिक् छ्न्दः त्रयोविंशीउष्णिग्गर्भा । षट्सप्तैकादशाउष्णिग्गर्भेति तल्लक्षणोपेतत्वात् । दशम्येकादशीद्वादश्योवैश्वदेव्यः अवशिष्टानां मित्रावरुणौ देवता सूक्तविनियोगोलैंगिकः ।