श्रवणम्

8.24.1 समानपद
सखा᳚य॒ आ शि᳚षामहि॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ ।
स्तु॒ष ऊ॒ षु वो॒ नृत᳚माय धृ॒ष्णवे᳚ ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । आ । शि॒षा॒म॒हि॒ । ब्रह्म᳚ । इन्द्रा᳚य । व॒ज्रिणे᳚ ।
स्तु॒षे । ऊं॒ इति᳚ । सु । वः॒ । नृ॑त᳚माय । धृ॒ष्णवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखायः मित्रभूता हे ऋत्विजः वज्रिणे वज्रहस्तायेन्द्राय ब्रह्म कर्तव्यमेतत्सूक्तरूपं स्तोत्रमाशिषामहि वयमाशास्मः शासु अनुशिष्टौ लुङि च्लेरङादे- शःइत्वषत्वे व्यत्ययेनात्मनेपदम् । तत्र वः सर्वेषामेव युष्माकं अर्थाय नृतमाय सर्वेषां नेतृतमाय यद्वा संग्रामेषु आयुधादीनां नेतृतमाय धृष्णवे शत्रू- णां धर्षणशीलाय तस्माइन्द्राय अहमेव सु सुष्ठु स्तुषे स्तौमि ॥ १ ॥