श्रवणम्

8.24.12
न॒ह्य१॒᳚ङ्ग नृ᳚तो॒ त्वद॒न्यं वि॒न्दामि॒ राध᳚से ।
रा॒ये द्यु॒म्नाय॒ शव᳚से च गिर्वणः ॥
▶ पदपाठः (Word-by-word)
न॒हि । अ॒ङ्ग । नृ॒तो॒ इति᳚ । त्वत् । अ॒न्यम् । वि॒न्दामि᳚ । राध᳚से ।
रा॒ये । द्यु॒म्नाय᳚ । शव᳚से । च॒ । गि॒र्व॒णः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृतो नर्तयितः गिर्वणः गीर्भिः स्तुतिभिः वननीय संभजनीयेन्द्र राधसे बलसंसाधकायान्नाय राये धनाय द्युम्नाय द्योतमानाय यशसे शवसे वर्ध- काय बलायच त्वत्त्वतोन्यं नहि विन्दामि न लभे । अंग प्रसिद्धौ ॥ १२ ॥