श्रवणम्

8.24.9
इन्द्र॒ यथा॒ ह्यस्ति॒ ते॑प᳚रीतं नृतो॒ शवः᳚ ।
अमृ᳚क्ता रा॒तिः पु᳚रुहूत दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । यथा᳚ । हि । अस्ति᳚ । ते॒ । अप᳚रि॑इतम् । नृ॒तो॒ इति᳚ । शवः᳚ ।
अमृ᳚क्ता । रा॒तिः । पु॒रु॒॑हू॒त॒ । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नृतो सर्वस्यांतर्यामितया नर्तयितरिन्द्र ते त्वदीयं शवोबलं यथा अपरीतमस्ति शत्रुभिरपरिगतमव्याप्तंभवति हिप्रसिद्धौ । तथा हे पुरुहूत पुरुभि- र्बहुभिराहूतेन्द्र दाशुषे हविर्दत्तवते यजमानाय रातिः धनादिदानममृक्ता शत्रुभिरहिंसितं भवति त्वत्तोलब्धं यजमानस्यधनं शत्रवोनहिंसन्ति । यथा त्वदीयबलस्य रक्षकः एवं तस्य धनस्यापि रक्षकइत्यर्थः ॥ ९ ॥