श्रवणम्

8.24.25
तदि॒न्द्राव॒ आ भ᳚र॒ येना᳚ दंसिष्ठ॒ कृत्व᳚ने ।
द्वि॒ता कुत्सा᳚य शिश्नथो॒ नि चो᳚दय ॥
▶ पदपाठः (Word-by-word)
तत् । इ॒न्द्र॒ । अवः᳚ । आ । भ॒र॒ । येन᳚ । दं॒सि॒ष्ठ॒ । कृत्व᳚ने ।
द्वि॒ता । कुत्सा᳚य । शि॒श्न॒थः॒ । नि । चो॒द॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तदवस्तद्रक्षणमस्मभ्यमाभर हे दंसिष्ठ अत्यन्तं दर्शनीय यद्वा शत्रूणामुपक्षपयितरिन्द्र कृत्वने कर्मकुर्वते यजमानाय तदर्थं येन पालनमकृथाः तद्रक्षणमाभरेति समन्वयः । किच्च कुत्साय कुत्सनामकाय राजर्षये द्विता द्विधा प्रकारेण शिश्नथः त्वं शत्रूनवधीः तस्मै द्वैधं पालनमकार्षीरित्यर्थः तद्रक्षणमप्यस्मभ्यं निचोदय नितरामत्यर्थं प्रेरय । यद्वा कृत्वनइति सामान्येनोक्त्वा निःशेषेण तदेवाह कुत्सायेत्यादि । शेषं पूर्ववत् ॥ २५ ॥