उपो॒ हरी᳚णां॒ पतिं॒ दक्षं᳚ पृ॒ञ्चन्त᳚मब्रवम् ।
नू॒नं श्रु᳚धि स्तुव॒तो अ॒श्व्यस्य᳚ ॥
नू॒नं श्रु᳚धि स्तुव॒तो अ॒श्व्यस्य᳚ ॥
पदपाठः (Word-by-word)
उपो॒ इति᳚ । हरी᳚णाम् । पति᳚म् । दक्ष᳚म् । पृ॒ञ्चन्त᳚म् । अ॒ब्र॒व॒म् ।
नू॒नम् । श्रु॒धि॒ । स्तु॒व॒तः । अ॒श्व्यस्य᳚ ॥
नू॒नम् । श्रु॒धि॒ । स्तु॒व॒तः । अ॒श्व्यस्य᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हरीणां हरितवर्णानामश्वानां पतिं पालयितारं दक्षं वर्धकं स्वबलं पृंचन्तं पृचीसंपर्के मरुत्सु योजयन्तम् यद्वा शत्रुषु स्वबलमायुधादिभिः संपर्चयन्त- मेतादृशमिन्द्रं त्वामुपो अब्रवं विश्वमना अहं स्तोत्रं करवाणि । अश्व्यस्य व्यश्वोनामर्षिः अश्वशब्देनोच्यते तस्य पुत्रस्य स्तुवतः स्तोत्रं कुर्वतोमम संबन्धिनीं त्वद्विषयां स्तुतिं नूनं सम्प्रति श्रुधि शृणु ॥ १४ ॥