इन्द्र᳚ स्थातर्हरीणां॒ नकि᳚ष्टे पू॒र्व्यस्तु᳚तिम् ।
उदा᳚नंश॒ शव᳚सा॒ न भ॒न्दना᳚ ॥
उदा᳚नंश॒ शव᳚सा॒ न भ॒न्दना᳚ ॥
पदपाठः (Word-by-word)
इन्द्र᳚ । स्था॒तः॒ । ह॒री॒णा॒म् । नकिः᳚ । ते॒ । पू॒र्व्य॑स्तु᳚तिम् ।
उत् । आ॒नं॒श॒ । शव᳚सा । न । भ॒न्दना᳚ ॥
उत् । आ॒नं॒श॒ । शव᳚सा । न । भ॒न्दना᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे हरीणां स्थातः अश्वानामधिष्ठातरिन्द्र ते त्वदीयां पूर्व्यस्तुतिं पूर्वैरृषिभिः कृतां स्तुतिमुपलक्षणं इदानींतनैः क्रियमाणामपिस्तुतिं नकिर्नकश्चित् शवसा बलेन उदानंश व्याप्नोति । अशूव्याप्तौ लिटि अश्नोतेश्चेतिनुट् छान्दसआगमः कश्चिन्नातिक्रामतीत्यर्थः । किंच भन्दना सर्वैः प्रार्थनीयत्वात् पूजनीयेन धनेन स्तुत्यावा त्वदीयां स्तुतिं नकश्चिदतिक्रामति त्वत्तोबलवान्धनी स्तुत्योवान्योनास्तीत्यर्थः ॥ १७ ॥