श्रवणम्

8.24.2
शव᳚सा॒ ह्यसि᳚ श्रु॒तो वृ᳚त्र॒हत्ये᳚न वृत्र॒हा ।
म॒घैर्म॒घोनो॒ अति᳚ शूर दाशसि ॥
▶ पदपाठः (Word-by-word)
शव᳚सा । हि । असि᳚ । श्रु॒तः । वृ॒त्र॒॑हत्ये᳚न । वृ॒त्र॒॑हा ।
म॒घैः । म॒घोनः᳚ । अति᳚ । शू॒र॒ । दा॒श॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र त्वं शवसा बलेन श्रुतः प्रसिद्धोसि भवसि हिप्रसिद्धौ । तदेवाह वृत्रहत्येन वृत्रासुरहननेन वृत्रहा वृत्रहन्तेति प्रसिद्धोभवसि । शूर शौर्यवन् हे इन्द्र मघोनोमघवतोधनवतः पुरुषान्मघैः त्वदीयैर्धनैरति अतिक्रम्य दाशसि स्तोतृभ्योस्मभ्यं प्रयच्छसि ॥ २ ॥