य ऋक्षा॒दंह᳚सो मु॒चद्यो वार्या᳚त्स॒प्त सिन्धु᳚षु ।
वध᳚र्दा॒सस्य᳚ तुविनृम्ण नीनमः ॥
वध᳚र्दा॒सस्य᳚ तुविनृम्ण नीनमः ॥
पदपाठः (Word-by-word)
यः । ऋक्षा᳚त् । अंह᳚सः । मु॒चत् । यः । वा॒ । आर्या᳚त् । स॒प्त । सिन्धु᳚षु ।
वधः᳚ । दा॒सस्य᳚ । तु॒वि॒॑नृ॒म्ण॒ । नी॒न॒मः॒ ॥
वधः᳚ । दा॒सस्य᳚ । तु॒वि॒॑नृ॒म्ण॒ । नी॒न॒मः॒ ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वोर्धर्चः परोक्षकृतः यइन्द्रऋक्षात् ऋन्मनुष्यान् क्षणोति क्षणोतेरौणादिकोडप्रत्ययः तस्माद्रक्षसोजातादंहसः पापरूपादुपद्रवान्मुचत् मुच्चति रा- क्षसएनं नबाधते किंपुनस्तंहन्तीत्यर्थः । अपिच यइन्द्रः सप्तसिंधुषु गंगाद्यासु नदीषु यद्वा सप्त सर्पणशीलासु सिंधुषु तत्कूलेष्वित्यर्थः गंगायांघोषइ- तिवत् । तेषु वर्तमानानां स्तोतृणां आर्यात् धनादिकं प्रेरयेत् ऋगतिप्रापणयोः आशीर्लिङि गुणोर्तिसंयोगाद्योरिति गुणः बहुलंछन्दसीति लिङ्यप्या- डागमः । अथप्रत्यक्षः हे तुविनृम्ण बहुधनेन्द्र दासस्योपक्षपयितुरसुरस्य वधः हननसाधनमायुधं नीनमः नमय ॥ २७ ॥