श्रवणम्

8.24.19 समानपद
एतो॒ न्विन्द्रं॒ स्तवा᳚म॒ सखा᳚य॒ः स्तोम्यं॒ नर᳚म् ।
कृ॒ष्टीर्यो विश्वा᳚ अ॒भ्यस्त्येक॒ इत् ॥
▶ पदपाठः (Word-by-word)
एतो॒ इति᳚ । नु । इन्द्र᳚म् । स्तवा᳚म । सखा᳚यः । स्तोम्य᳚म् । नर᳚म् ।
कृ॒ष्टीः । यः । विश्वाः᳚ । अ॒भि । अस्ति᳚ । एकः᳚ । इत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सखायः समानख्याना मित्रभूतावा हे ऋत्विजः नु क्षिप्रं एतो आगच्छतैव । किमर्थं तदाह स्तोम्यं स्तोमार्हं नरं सर्वस्यनेतारं तमिन्द्रं स्तवाम स्तो- त्रं करवाम । यइन्द्रः एकइत् एकोसहायएवसन् विश्वाः सर्वाः कृष्टीः शत्रुसेनाः अभ्यस्ति अभिभवति तं स्तवामेतिशेषः ॥ १९ ॥