श्रवणम्

8.24.10
आ वृ᳚षस्व महामह म॒हे नृ᳚तम॒ राध᳚से ।
दृ॒ळ्हश्चि᳚द्दृह्य मघवन्म॒घत्त᳚ये ॥
▶ पदपाठः (Word-by-word)
आ । वृ॒ष॒स्व॒ । म॒हा॒॑म॒ह॒ । म॒हे । नृ॒॑त॒म॒ । राध᳚से ।
दृ॒ळ्हः । चि॒त् । दृ॒ह्य॒ । म॒घ॒॑व॒न् । म॒घत्त᳚ये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे महामह अतिशयेन सर्वैः पूजनीय नृतम नेतृतमेन्द्र महे महते राधसे शत्रुधनानां संसाधकाय बलार्थं आवृषस्व स्वोदरमासिच्च सोमं पिबेत्यर्थः । हे मघवन् धनवन्निन्द्र सोमपानेन मत्तःसन् दृह्ळश्चित् दृढानि परैः अबाधितान्यपि शत्रुपुराणि मघत्तये मघानां धनानां लाभाय दृह्य जिघांस विदार- येत्यर्थः ॥ १० ॥