यस्यामि᳚तानि वी॒र्या॒३॒᳚ न राध॒ः पर्ये᳚तवे ।
ज्योति॒र्न विश्व᳚म॒भ्यस्ति॒ दक्षि᳚णा ॥
ज्योति॒र्न विश्व᳚म॒भ्यस्ति॒ दक्षि᳚णा ॥
पदपाठः (Word-by-word)
यस्य᳚ । अमि᳚तानि । वी॒र्या᳚ । न । राधः᳚ । परि᳚॑एतवे ।
ज्योतिः᳚ । न । विश्व᳚म् । अ॒भि । अस्ति᳚ । दक्षि᳚णा ॥
ज्योतिः᳚ । न । विश्व᳚म् । अ॒भि । अस्ति᳚ । दक्षि᳚णा ॥
सायणभाष्यम् (Sayana Commentary)
यस्येन्द्रस्य वीर्या वीर्याणि वृत्रहननादिलक्षणानि सामर्थ्यानि अमितानि अस्य इयन्ति सामर्थ्यानि नान्यानीति परिमितानि नभवन्ति । यद्वा मीत्र् हिंसायां छान्दसोह्रस्वः शत्रुभिरहिंसितानि भवन्ति । तथा यस्येन्द्रस्य राधोधनं न पर्येतवे शत्रुभिः परिगंतुं प्राप्तुं शक्यं न भवति । अतएवास्यदक्षि- णा धनं दानमभ्यस्ति विश्वं सर्वं स्तोतृजनं अभिभवति । तत्रदृष्टान्तः- ज्योतिर्न ज्योतिषामयनत्वात् ज्योतिरन्तरिक्षं यथान्तरिक्षं सर्वलोकं पिधाय तिष्ठति तद्वत् स्तोतृजनं धनदानेन पिधत्तइत्यर्थः । यद्वा येन दत्तं धनं सर्वं शत्रुजनमभिभवति येनदत्तं धनमादायासतः शत्रूनभिभवतीत्यर्थः ॥ २१ ॥