श्रवणम्

8.24.5
न ते᳚ स॒व्यं न दक्षि᳚णं॒ हस्तं᳚ वरन्त आ॒मुरः᳚ ।
न प᳚रि॒बाधो᳚ हरिवो॒ गवि᳚ष्टिषु ॥
▶ पदपाठः (Word-by-word)
न । ते॒ । स॒व्यम् । न । दक्षि᳚णम् । हस्त᳚म् । व॒र॒न्ते॒ । आ॒॑मुरः᳚ ।
न । प॒रि॒॑बाधः᳚ । ह॒रि॒॑वः॒ । गो॑इ᳚ष्टिषु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे हरिवोश्ववन्निद्र आमुरः संग्रामेआभिमुख्येन कर्तारः प्रतियोद्धारो गविष्टिषु पणिभिरपहृतानामंगिरसांगवामन्वेषणेषु ते तव सव्यं हस्तं नवरंते न निवारयन्ति तेषामायुधादिभिर्न निवार्यतइत्यर्थः । तथा दक्षिणंह्स्तंच न निवारयन्ति । किंच परिबाधः परितोबाधमानाः वृत्रादयोसुराश्च तव स- व्यदक्षिणहस्तौ ननिवारयन्ति संग्रामेषु त्वया सर्वे शत्रवः छिन्नहस्ताः सर्वतोगच्छन्तु त्वंतु तैरबाधितोवर्तसइत्यर्थः ॥ ५ ॥