श्रवणम्

8.24.18
तं वो॒ वाजा᳚नां॒ पति॒महू᳚महि श्रव॒स्यवः᳚ ।
अप्रा᳚युभिर्य॒ज्ञेभि᳚र्वावृ॒धेन्य᳚म् ॥
▶ पदपाठः (Word-by-word)
तम् । वः॒ । वाजा᳚नाम् । पति᳚म् । अहू᳚महि । श्र॒व॒स्यवः᳚ ।
अप्रा᳚यु॑भिः । य॒ज्ञेभिः᳚ । व॒वृ॒धेन्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अप्रायुभिः कर्मसु अप्रमाद्यन्मनुष्ययुक्तैः अथवा अप्रमत्ताएकत्रस्थित्वैवकर्मकुर्वन्ति कर्मप्रारभ्यनान्यंदेशं गच्छन्तीत्यर्थः एवं विधमनुष्ययुक्तैर्यज्ञेभिर्य- ज्ञैः एतादृशमनुष्यैर्यज्ञैर्वा वावृधेन्यं वर्धनीयं वाजानामन्नानां पतिं स्वामिनं वः यष्टृयष्टव्यसंबन्धेन युष्मदीयंतं तादृशमिन्द्रं श्रवस्यवः वयमन्नकामाः सन्तः अहूमहि आह्वयामः । ह्वयतेर्लुङि बहुलंछन्दसीति संप्रसारणम् ॥ १८ ॥ पूर्वोक्तएव शस्त्रे एतोन्विन्द्रमित्येतौतृचौ वैकल्पिकौस्तोत्रियानुरूपौ सूत्रितच्च-एतोन्विन्द्रंस्तवामसखायः स्तुहीन्द्रंव्यश्ववदिति ।