श्रवणम्

8.24.13
एन्दु॒मिन्द्रा᳚य सिञ्चत॒ पिबा᳚ति सो॒म्यं मधु᳚ ।
प्र राध᳚सा चोदयाते महित्व॒ना ॥
▶ पदपाठः (Word-by-word)
आ । इन्दु᳚म् । इन्द्रा᳚य । सि॒ञ्च॒त॒ । पिबा᳚ति । सो॒म्यम् । मधु᳚ ।
प्र । राध᳚सा । चो॒द॒या॒ते॒ । म॒हि॒॑त्व॒ना ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋत्विजः इन्द्रुं स्यंदनशीलं सोमं इंद्राय इन्द्रार्थमासिच्चत आश्रयणद्रव्येण सेचनं कुरुत अभिषुतेत्यर्थः । ततः सोम्यं सोममयं मधु मधुकरं सोमरसं पिबाति पिबतु पीत्वाच सइन्द्रः महित्वना स्वमहत्त्वेनैव राधसा अन्नेन सह धनादिकं स्तोतृभ्यः प्रचोदयाते प्रकर्षेण चोदयति । यद्वा यजमानःमहि- त्वना इन्द्राय प्रदीयमानत्वादस्य महत्वं महत्वयुक्तेन राधसान्नेन सह स्तोतृन्प्रचोदयति इन्द्राय हविर्दत्तेति स्तोतृन् प्रेरयतीत्यर्थः ॥ १३ ॥