श्रवणम्

8.1.19
इन्द्रा᳚य॒ सु म॒दिन्त᳚मं॒ सोमं᳚ सोता॒ वरे᳚ण्यम् ।
श॒क्र ए᳚णं पीपय॒द्विश्व᳚या धि॒या हि᳚न्वा॒नं न वा᳚ज॒युम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚य । सु । म॒दिन्॑त᳚मम् । सोम᳚म् । सो॒त॒ । वरे᳚ण्यम् ।
श॒क्रः । ए॒न॒म् । पी॒प॒य॒त् । विश्व᳚या । धि॒या । हि॒न्वा॒नम् । न । वा॒ज॒॑युम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यवः इन्द्रायेन्द्रार्थं मदिन्तमं मादयितृतमं वरेण्यं वरणीयं भजनीयं सोमं सु सोत सुष्ठु अभिषुणुत । कुतइत्यत आह शक्र इन्द्रः विश्वया धिया सर्वया क्रिययाग्निष्टोमादिलक्षणया हिन्वानं प्रीणयन्तं वाजयुं अन्नमात्मनइच्छन्तं एनं यजमानं नेति सम्प्रत्यर्थीयः संप्रति पीपयत् वर्धयति अतः कारणात् तस्माइन्द्राय सोमं सुनुतेत्यर्थः ॥ १९ ॥