तृतीयं मण्डलम् - सूक्तम् 12

9 ऋचः

ऋषिः: गाथिनो विश्वामित्रः देवता: इंद्राग्नी छन्दः: गायत्री

सूक्तम् 3.12 - सम्पूर्णम्

1 / 9
ऋक्: 3.12.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
3.12.1
इन्द्रा᳚ग्नी॒ आ ग᳚तं सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यम् ।
अ॒स्य पा᳚तं धि॒येषि॒ता ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । आ । ग॒त॒म् । सु॒तम् । गीः॒॑भिः । नभः᳚ । वरे᳚ण्यम् ।
अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रश्चाग्निश्चेन्द्राग्नी हे इन्द्राग्नी देवौ सुतमभिषवादिसंस्कारैः संस्कृतमत एव वरेण्यं वरणीयं सम्भजनियमिमं सोमं प्रति गीर्भिरस्मदीयाभिः स्तुतिरुपाभिर्वाग्भिराहुतौ सन्तौ नभो नभसः स्वर्गस्थानादागतम् । आगच्छतम् । आगत्य च धियास्माभिः क्रियमाणे कर्मणीषिता प्रेरितौ युवामस्य पातम् । इमं सोमं पिबतम् । यद्वा धियास्मदीयया । बुद्ध्येषितौ प्राप्तावस्मद्भक्त्या प्रेरितौ युवाविमं सोमं पिबतम् । इन्द्राग्नी । इन्द्रश्चाग्निश्च द्वन्द्वे घि । पा. २-२-३२ । इत्यग्नशब्दस्य पुर्वनिपाते प्राप्ते अजाद्यदन्तम् । पा. २-२-३३ । इतीन्द्र शब्दस्य पूर्वनिपातः । पादादित्वान्निघातप्रतिषेधः । षाष्ठिक स्वरः । गतम् । गम् लृ सृप् लृ गतौ । बहुलं छन्दसीति शपो लिकि सत्यनुदात्तोपदेशात्यादिना मकारलोपः । निघातः । वरेण्यम् । पृङ् सम्भक्तौ । वृङ् एण्यः । वृषादित्वादाद्युदात्तः । पातम् । पा पाने । सर्वे विधयश्छन्दसि विकल्प्यन्त इति न पिबादेशः । इषिता । इष गतावित्यस्माद्धातोर्निष्ठायांतीषसहेतीडागमः । आगमा अनुदात्ता इतीटोऽनुदात्तत्वात् क्तस्वरः शिष्यते ॥ १ ॥

3.12.2
इन्द्रा᳚ग्नी जरि॒तुः सचा᳚ य॒ज्ञो जि᳚गाति॒ चेत᳚नः ।
अ॒या पा᳚तमि॒मं सु॒तम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । ज॒रि॒तुः । सचा᳚ । य॒ज्ञः । जि॒गा॒ति॒ । चेत᳚नः ।
अ॒या । पा॒त॒म् । इ॒मम् । सु॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी जन्तुः स्तोतुः सचा स्वर्गादिलक्षणफलराप्तौ सहाअयभूतो यज्ञो ज्योतिष्टोमादियज्ञसाधनभूश्चेतन इन्द्रियाणां चेतयिताप्यायनकारी सन् असौ सोमो जिगाति । युवामभिगच्छति । अयास्मदीयया स्तुतिलक्षणयानया वाचाहुतौ सन्तौ सुतमभिषवादिसंस्कारोपेतमिमं सोमं पातम् । पिबतम् । जिगाति । गा स्तुतावित्ययं धातुरत्र गमने वर्तते । छन्दसि जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । निघातः । चेतनः । चिती संज्ञाने । कर्तरि बहुलवचनाल्ल्युट् । लिशीत्याद्युदात्तत्वम् । अया । इदं शब्दस्य तृतीयायाः । सुपां सुलुगिति याजादेशः । अनादेकप्राप्तौ हलि लोपः । पातम् । पा पाने । निघातः । ॥ २ ॥

3.12.3
इन्द्र᳚म॒ग्निं क᳚वि॒च्छदा᳚ य॒ज्ञस्य᳚ जू॒त्या वृ᳚णे ।
ता सोम᳚स्ये॒ह तृ᳚म्पताम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । अ॒ग्निम् । क॒वि॒॑छदा᳚ । य॒ज्ञस्य᳚ । जू॒त्या । वृ॒णे॒ ।
ता । सोम᳚स्य । इ॒ह । तृ॒म्प॒ता॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्य यज्ञस्य साधनभूतस्य सोमस्य जूत्या । जूतिः प्रेरणम् । सोमस्तावद्यजमानं प्रेरयति । साधनमौपलभ्य तत्साध्यक्रतौ यजमानः प्रवर्तत इति हि तस्य प्रेरकत्वम् । तया प्रेरणरूपया जूत्या प्रेरितोऽहं कविच्छदा कवीनां स्तोतॄणामुचितफलप्रदानेनोपच्छन्दकाविन्द्रमग्निं च युवां वृणे । सोमपानर्थमिह कर्मण्यागच्छतमिति सम्भजे । ता आगतौ च ताविन्द्राग्नी इह कर्मणि सोमस्य सोमपानेन तृम्पताम् । तृप्यताम् । इन्द्रम् । इदि परमैश्वर्य इत्यस्माद्धातोर्यज्रेन्द्राग्रेति रन्प्रत्ययान्तत्वेन निपातनादाद्युदात्तत्वम् । कविच्छदा । छदि अपवारणे । अस्मात्क्विप् । सुपां सुलुगिति सुपो डादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । जूत्या । जू इति सौत्रो धातुः । अस्मादुदात्त इत्यनुवृत्तापूतियूतिजूतीत्यादिना निपातनादन्तोदात्तत्वम् । उदात्तयणो हल् पूर्वादिति विभक्तेरुदात्तत्वम् । वृणे । वृङ् सम्भक्तौ । श्नाप्रत्ययः । टत आआत्मनेपदानामिति टेरेत्वम् । निघातः । ता । सुपां सुलुगिति डादेशः । सोमस्य षुञ् अभिषवे । अस्मादर्शिस्तुसुदुसृधृक्षीत्यादिना मन् प्रत्ययः । नित्स्वरः । शृंपताम् । तृप प्रीणने । लोटि मुचादित्वान्नुमागमः निघातः ॥ ३ ॥

3.12.4
तो॒शा वृ᳚त्र॒हणा᳚ हुवे स॒जित्वा॒नाप᳚राजिता ।
इ॒न्द्रा॒ग्नी वा᳚ज॒सात᳚मा ॥
▶ पदपाठः (Word-by-word)
तो॒शा । वृ॒त्र॒॑हना᳚ । हु॒वे॒ । स॒॑जित्वा᳚ना । अप᳚रा॑जिता ।
इ॒न्द्रा॒ग्नी इति᳚ । वा॒ज॒॑सात᳚मा ॥
▶ सायणभाष्यम् (Sayana Commentary)

तोशा शत्रूणां बाधकौ वृत्रहणा वृत्रस्य पापस्य हन्तारौ सजित्वाना समान जेतारौ परस्यापेक्षया जयशीलावपराजिता केनाप्यतिरस्कृतौ वाजसातमान्नस्यातितयेन दातारविन्द्राग्नी युवां हुवे । इह कर्मणि सोमपानार्थमहमाह्वयामि । वृत्रहणा । हन हिम्सागत्योः । ब्रह्मभ्रूणवृत्रेषु क्विबिति क्विप् । एकाजुत्तरपदे णः । पा. ८-४-१२ । इति णत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । हुवे । हूयतेर्बहुलं छन्दसीति लुकि सति ह्वः सम्प्रसारणमित्यनुवृत्तौ बहुलं छन्दसीति सम्प्रसारणम् । उवङादेशः । व्यत्ययेनात्मनेपदम् । निघातः । सजित्वाना । जि जये । शीङ् क्रुशिरुहिजिक्षिसृधृभ्यः । उ. ४-११३ । इति क्वनिप् । कित्त्वाद्गुणाभावः । पित्त्वात्तुगागमः । समानस्य छन्दस्यमूर्धेति समानस्य सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपराजिता । नञ्स्मासे तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । देवताद्वन्द्वे चेत्युभयपदप्रकृतिस्वरत्वे प्राप्ते नोत्तरपदेऽनुदात्तादाविति प्रतिषेधात्समासस्वरः । वाजसातमा । षणु दाने । समाज्जनसनखनक्रमगम इति विट् । विड्वनोरनुनासिकस्यादित्याकारः । अतिशायने तमबिति तमप् । कृदुत्तरपदप्रकृतिस्वरत्वं ॥ ४ ॥

3.12.5
प्र वा᳚मर्चन्त्यु॒क्थिनो᳚ नीथा॒विदो᳚ जरि॒तारः᳚ ।
इन्द्रा᳚ग्नी॒ इष॒ आ वृ᳚णे ॥
▶ पदपाठः (Word-by-word)
प्र । वा॒म् । अ॒र्च॒न्ति॒ । उ॒क्थिनः᳚ । नी॒थ॒॑विदः᳚ । ज॒रि॒तारः᳚ ।
इन्द्रा᳚ग्नी॒ इति᳚ । इषः᳚ । आ । वृ॒णे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी उक्थिनः । उक्थं शस्त्रम् । तद्वन्तः शस्त्रिणो होत्रादयो वांयुवां प्रार्चन्ति । इह कर्मणि स्तुतिरूपाभिर्वाग्भिः पूजयन्ति । तथा नीथाविदः स्तोत्राभिज्ञाः सामगानकुशला जरितारः स्तोतार उद्गात्रादयोऽभिलषितफलवाप्तये युवामर्चन्ति । अहमपीषेऽन्नस्य लाभार्थमिन्द्राग्नी युवामा वृणे । सर्वतः सम्भजे । पूजयामीत्यर्थः ॥ वाम् । युष्मच्छ्ब्दस्य द्वितीयायां पादात्परत्वाद्युष्मदस्मदोः षष्ठी चतुर्थी व्वितीया इत्यादिना वामित्यादेशोऽनुदात्तश्च । अर्चन्ति । अर्च पूजायाम् । निघातः । उक्थिनः । वच परिभाषणे । पातॄतुदिवचिरिचीति कर्मणि थक् । वचिस्वपीत्यादिना सम्प्रसारणं उक्थं शस्त्रम् । उक्थं येषां ते । अत इनिशनावितीनिः । यस्येति लोपः । प्रत्ययस्वरः । नीथावदः । णीञ् प्राअपणे । हनिकुषिनीरमीत्यादिना क्थन् । कित्त्वाद्गुणाभावः । विद ज्ञाने । क्विप् चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । आमन्त्रितत्वादाद्युदात्तत्वम् । वृणे । वृङ् सम्भक्तौ । निघातः ॥ ५ ॥

3.12.6
इन्द्रा᳚ग्नी नव॒तिं पुरो᳚ दा॒सप᳚त्नीरधूनुतम् ।
सा॒कमेके᳚न॒ कर्म᳚णा ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । न॒व॒तिम् । पुरः᳚ । दा॒स॑प᳚त्नीः । अ॒धू॒नु॒त॒म् ।
सा॒कम् । एके᳚न । कर्म᳚णा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी दासपत्नीः । दासयन्त्युपक्षपयन्तीति दासा उपक्षपयितारः शत्रवः । ते पतयः पालकाः यासां ता दासपत्नीः । नवतिं नवतिसंख्याकाः पुर एवं विधाः शत्रूणां पुरीरेकेन कर्मणैकेनैवोद्योगेन युवां साकं सह युगपत् अधूनुतम् । अकंपयतम् । ताविन्द्राग्नी आह्वयामीति शेषः । नवतिम् । नवानां दशतां नवभावः तिश्च प्रत्ययः । प्रत्ययस्वरेणान्तोदात्तः । दासपत्नीः । दसु उपक्षये । दासयतीतिदासः । पचाद्यजन्तः । चित्त्वादन्तोदात्तः । ते पतयो यासां नित्यं सपत्न्यादिषु दासाच्च । पा. ४-१-३५-१ । इत्युक्तत्वाद्विभाषा सपूर्वस्येति ङिप् । इकारस्य नकारः । बहुव्रीहौ पूर्वपप्रकृतिस्वरत्वम् । अधूनुतम् । धूञ् कम्पने । लङ् स्वादिभ्यः श्नुः । निघातः । एकेन । इण् गतौ । इण्भीकापाशल्यतिमर्चिभ्यः कन्निति कन् । नित्त्वादाद्युदात्तः ॥ ६ ॥

3.12.7
इन्द्रा᳚ग्नी॒ अप᳚स॒स्पर्युप॒ प्र य᳚न्ति धी॒तयः᳚ ।
ऋ॒तस्य᳚ प॒थ्या॒३॒᳚ अनु᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । अप᳚सः । परि᳚ । उप᳚ । प्र । य॒न्ति॒ । धी॒तयः᳚ ।
ऋ॒तस्य᳚ । प॒थ्याः᳚ । अनु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी चीतयः सोमस्य धातारः पातारो होत्रादय ऋतस्य कर्मफलस्य पथ्याः पथो मार्गाननु लक्षीकृत्यापसोऽस्माभिः क्रियमाणस्य कर्मणः परि सर्वत उप प्रयन्ति । समीपे ष्रकष्रेण वर्तन्ते । अतः सोमपानार्थं युवामागच्छतमिति भावः । यद्वा । धीतयः । स्तुतय ऋतस्य यज्ञस्य मार्गान् लक्ष्मीकृत्य कर्मणः परितः प्रवर्तन्ते । अतः स्तोतव्यतया युवामागत्तमिति । यन्ति । इण् गतौ । यणादेशः । निघातः । धीतयः । धेट् पान इत्यस्मात्कर्तरि क्तिच् क्तौ च संज्ञायामिति क्तिच् । घुमास्थेतीत्वम् । चित्त्वादन्तोदात्तः ॥ ७ ॥

3.12.8
इन्द्रा᳚ग्नी तवि॒षाणि᳚ वां स॒धस्था᳚नि॒ प्रयां᳚सि च ।
यु॒वोर॒प्तूर्यं᳚ हि॒तम् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । त॒वि॒षाणि᳚ । वा॒म् । स॒ध॑स्था᳚नि । प्रयां᳚सि । च॒ ।
यु॒वोः । अ॒प्॑तूर्य᳚म् । हि॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी वां युवयोस्तविषाणि बलानि प्रयाम्स्यन्नानि च सधस्थानि परस्परमवियुज्य वर्तन्ते । तथात्पूर्यं वृष्टिद्वारा प्रेरकत्वं युवोर्युवयोरेव हितं निहितं वर्तते । तस्मात्सोमपानप्रभृतिषु सर्वकर्मस्विन्द्राग्न्योः सहैव वर्तमानत्वमिति भावः । वाम् । षष्ठीद्विवचने वामित्यादेशः । सधस्थानि । ष्ठा गतिनिवृत्तौ । अतोऽनुपसर्गे कः । सध मादस्थयोश्छन्दसीति सहस्य सधादेशः । ॥ ८ ॥

3.12.9
इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे᳚षु भूषथः ।
तद्वां᳚ चेति॒ प्र वी॒र्य᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । रो॒च॒ना । दि॒वः । परि᳚ । वाजे᳚षु । भू॒ष॒थः॒ ।
तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्राग्नी दिवो रोचना स्वर्गस्य रोचकौ प्रकाशकौ युवां वाजेषु सङ्ग्रामेषु परि भूषढः । परितः सर्वतोऽलङ्कृतौ भवथः । शत्रून्पराजित्य सर्वतो विजयमानौ वर्तथे । वां युवयोर्वीर्यं सामर्थ्यमेव तत्तादृशं सङ्ग्रामविजयं प्रचेति । प्रकर्षेण ज्ञापयति । यद्वा युवां वाजेषु सङ्ग्रामेषु परिभूषथः । शत्रून् परिभवथः । शेषं पूर्ववत् ॥ रोचना । रुच दीप्तावित्यस्य अनुदात्तेतश्च हलादेरीति युच् । चित्त्वादन्तोदात्तः । भूषथः । भूष भूषणे । निघातः । चेति । चिती संज्ञाने । अयमन्तर्भावितण्यर्थः । बहुलं छन्दसीति तपो लुक् । तकारलोपश्छान्दसः ॥ ९ ॥