इन्द्रा᳚ग्नी॒ इष॒ आ वृ᳚णे ॥
पदपाठः (Word-by-word)
इन्द्रा᳚ग्नी॒ इति᳚ । इषः᳚ । आ । वृ॒णे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्राग्नी उक्थिनः । उक्थं शस्त्रम् । तद्वन्तः शस्त्रिणो होत्रादयो वांयुवां प्रार्चन्ति । इह कर्मणि स्तुतिरूपाभिर्वाग्भिः पूजयन्ति । तथा नीथाविदः स्तोत्राभिज्ञाः सामगानकुशला जरितारः स्तोतार उद्गात्रादयोऽभिलषितफलवाप्तये युवामर्चन्ति । अहमपीषेऽन्नस्य लाभार्थमिन्द्राग्नी युवामा वृणे । सर्वतः सम्भजे । पूजयामीत्यर्थः ॥ वाम् । युष्मच्छ्ब्दस्य द्वितीयायां पादात्परत्वाद्युष्मदस्मदोः षष्ठी चतुर्थी व्वितीया इत्यादिना वामित्यादेशोऽनुदात्तश्च । अर्चन्ति । अर्च पूजायाम् । निघातः । उक्थिनः । वच परिभाषणे । पातॄतुदिवचिरिचीति कर्मणि थक् । वचिस्वपीत्यादिना सम्प्रसारणं उक्थं शस्त्रम् । उक्थं येषां ते । अत इनिशनावितीनिः । यस्येति लोपः । प्रत्ययस्वरः । नीथावदः । णीञ् प्राअपणे । हनिकुषिनीरमीत्यादिना क्थन् । कित्त्वाद्गुणाभावः । विद ज्ञाने । क्विप् चेति क्विप् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इन्द्राग्नी । आमन्त्रितत्वादाद्युदात्तत्वम् । वृणे । वृङ् सम्भक्तौ । निघातः ॥ ५ ॥